Tuesday 30 June 2015

As we think...so we become - put beautifully in Sanskrit verse

ॐ श्री गुरुभ्यो नमः

As we think...so we become - Acharya @iksusara,  Ranga @samjignyasu and @PnNamboo put this beautifully in verse. 

"Watch your thoughts for they become words.
Watch your words for they become actions.
Watch your actions for they become habits.
Watch your habits for they become your character.
And watch your character for it becomes your destiny.
What we think, we become."


Acharya wrote


यथाचिन्तं तथा वचः यथा वचः तथा क्रिया । यथाक्रियं तथाभ्यासः यथाभ्यासं तथा शीलम्॥
यथाशीलं तथा भाग्यम् एतज् जानीत मानवाः । यथाभावं भवामस्तु रहस्यं तद्विजानीत ॥

Ranga's composition

चिन्तां वचो ऽनुसरति क्रियया वचोऽनुव्रज्येत कर्म समये ऽभ्यसनं प्रसूते l
अभ्यासतो भवति शीलमतश्च भाग्यं चिन्ता हि भाग्यजननीत्यवधेहि तस्मात् ॥​

Verses by Nambooji
यथा चिन्ता तथा भाषा यथा भाषा तथा क्रिया । यथा क्रिया तथा शीलं सत्वं शीलसमाश्रितम् ॥
उत्तरोत्तरधर्माणां कार्यकारणयोगतः । उदात्तभावचिन्ताभिः सत्वशुद्धिर्भवेन्नृणाम् ॥


Monday 22 June 2015

Sequence of Twelve Jyotirlingas द्वादशज्योतिर्लिंगस्तोत्रम् and Shiva teaching yoga


Sequence of Twelve Jyotirlingas


द्वादशज्योतिर्लिंगस्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥

श्रीशैलशृङ्गे विबुधादिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३ ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तं ओंकारमीशं शिवमेकमीडे ॥ ४ ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्री वैद्यनाथं तमहं नमामि ॥ ५ ॥

यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ ६ ॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्चितं तं रामेश्वराख्यं नियतं नमामि ॥ ७ ॥

याम्ये सदंगे नगरेऽतिरम्ये विभूषिताङ्गं विबुधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्री नागनाथं शरणं प्रपद्ये ॥ ८ ॥

सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्री विश्वनाथं शरणं प्रपद्ये ॥ ९ ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात् पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ १० ॥

महाद्रिपार्श्वे च तटे रमन्तं संपूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैः यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥ ११ ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यं ।
वन्दे महोदारतरस्वभावं धृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ १३ ॥

This Stotra is said to be authored by Adi Shankaracharya. Here, in the last Shloka the phrase प्रोक्तमिदं क्रमेण suggests the sequence of Darshan of Twelve Jyotirlingas. However, the sequence found here is too zigzag via Gujarat, Andhra, Madhya Pradesh, etc. Whoever be the author of this Stotra must had something in mind in presenting the sequence of Jyotirlingas. I could not find any reason for this order.

The same order is seen in the following Stotra also -
द्वादश ज्योतिर्लिङ्गानि

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

एतेशां दर्शनादेव पातकं नैव तिष्ठति ।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥

Shiva Teaching Yoga



मय्येकचित्तता योग इति पूर्ब्बं निरूपितम् । साधनान्यष्टधा तस्य प्रवक्ष्याम्यधुना शृणु ॥
यमाश्च नियमास्तावदासनान्यपि षण्मुख । प्राणायामस्ततः प्रोक्तः प्रायाहारश्च धारणा ॥
ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते ।..मद्भक्तिभावना पूता यान्ति मत्परमं पदम् ॥
जगतः प्रलये प्राप्ते नष्टे च कमलोद्भवे । मद्भक्ता नैव नश्यन्ति स्वेच्छाविग्रहधारिणः ॥
योगिनां कर्म्मिणां चैव तापसानां यतात्मनाम् । अहमेव गतिस्तेषां नान्यदस्तीति निश्चयः ॥(ब्रह्मपुराणम् - १२ अध्यायः) 
This is quoted by Shabdakalpadruma. Here Shiva gives Upadesha of Yoga to his son Subrahmanya. I could not find any other reference (direct) that Shiva is teaching Yoga to his disciple in Summer Solstice. However, one such indirect Sholaka (famous and familiar) is
चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥

This shloka refers to Yoga teaching indirectly. Because the four disciples Sanaka, Sanandana etc are known as Yogiishaas. Hence, Shiva might be teaching Yoga to them. This can be supported by these shlokas -

1) पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः। पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम्।।
2) सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः ।
3) त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥

Also here, मौनं refers to one of the parts of Yoga (Yoga Anga) under Tapas - काष्ठमौनम् आकारमौनं च. Hence, this shloka could also be treated as a source for Shiva teaching Yoga to his disciples.
******* 

Wednesday 17 June 2015

कस्मै वेह न रोचेत


ॐ श्री गुरुभ्यो नमः

Sanskrit is flourishing on Twitter. Here are some verses on twitterati composed on the spot by Acharya @iksusara


Tuesday 2 June 2015

जागृहि जागृहि ! Awaken! Awaken!

                                                             ॐ श्री गुरुभ्यो नमः

Monday 1 June 2015

Meaning of त्र्यम्बकम् and the Mantra

ॐ श्री गुरुभ्यो नमः

As explained by Acharya @iksusara



त्र्यम्बकम् इति ऋक्

त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्।उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्॥ ७.५९.१२

त्र्यम्बकं = त्रयाणाम् अम्बकं = त्र्यम्बकम् । त्रयाणां = ब्रह्म​-विष्णु-रुद्राणाम् अम्बकं = पितरं, यजामहे = यजनं कुर्मः इति शिष्यसमाहितो वशिष्ठो वदति । कीदृशं त्र्यम्बकम् इति चेत् - सुगन्धिं = प्रसारितपुण्यकीर्तिं, पुष्टिवर्धनं = जगतः बीजं, मृत्योः = मरणात् संसाराद् वा, मुक्षीय = मोचय । उर्वारुकम् इव = यथा कर्कटीफलं, बन्धनात् = पाशात्, (मुच्यते तथा संसाराद् मरणाद् वा मोचय इत्यर्थः) । मा अमृतात् = चिरजीवितात्, स्वर्गाद्, मोक्षाद् वा मा मोचय ॥

तात्पर्यम्

प्रसारितपुण्यकीर्तिं जगतः बीजं ब्रह्मविष्णुरुद्राणां पितरं संसाराद् मोचनाय न तु स्वर्गाद् मोक्षाद् वा मोचनाय यजामहे ॥

हिन्दी

जिस की पुण्यकीर्ति प्रसारित है, जो जगत् के बीज है, ब्रह्म विष्णु और रुद्र के पिता है, ऐसे पर ब्रह्म को इस संसार से मुक्ति पाने केलिए (न कि चिर जीवित से या स्वर्ग से मुक्ति प् आने के लिए) उस पर ब्रह्म की यजन करेंगें ॥

English

We worship that Paramatma whose fame is spread all over, who is the creator of this world, who is the father of Brahma Vishnu and Rudra for liberation from this world (or from death) and (न कि चिर जीवित से या स्वर्ग से मुक्ति प् आने के लिए) not for liberation from long-life or Svarga etc.

Note:

Here, in all the traditions it is pronounced as त्र्यम्बकम् only. Almost all the commentators wrote commentary considering the word as त्र्यम्बकम् only. Further, Padapatha also it is split and pronounced as त्र्यम्बकम् only.Further, in Rigvidhana (2-315) it is said समुद्दिश्य महादेवं त्र्यम्बकं त्र्यम्बेत्यृचा । एतत्पर्वशतं कृत्वा जीवेद्वर्षशतं सुखी ॥ Here also the reference is त्र्यम्बकम् only. Also in Taittiriya Brahmana it is mentioned as त्र्यम्बकं यजामह इत्याह । It becomes clear that it is only त्र्यम्बकम् ..

अम्ब गतौ (भ्वादिः परस्मैपदी सकर्मकः सेट्) अम्बति गच्छति (झटिति नक्षत्रं यावत्) इति अम्बकम् (स्वार्थे क​) इति नेत्रम्

When we see the sky our eyes at once go upto stars - explanation for the above

अम्ब्यते गर्भे प्राप्यते इति (घञ् स्वार्थे क च​) अम्बकम् इति पिता ॥ - Impregnation is made by whom is अम्बकः Father