By Narayanan N
धन्योऽहं कृतकृत्योऽहं नूनं पुण्यातिरेकतः ।
By Ranga
भक्त्या दधाति यः शिष्यः चित्ते गुरुगिरस् सदा ।
अत्र नूनम् अमुत्रापि विन्देत परमां गतिम्
My experience at Amarnath in verses as हैमाष्टकम् at the link http://t.co/vUivzB83Kw
— Ramanuja DEVANATHAN (@iksusara) July 17, 2015
@RohiniBakshi Please refer http://t.co/GAEXLc1leY for sequence of Jyotirlings
— Ramanuja DEVANATHAN (@iksusara) June 22, 2015
Shiva Teaching Yoga
Read: http://t.co/0FHsqLAtLq
— Ramanuja DEVANATHAN (@iksusara) June 22, 2015
श्रीकमलजदयिताष्टकम्
शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि ।
शंभुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने
विद्यां शुद्धाञ्चबुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥
अन्वयः — हे शृङ्गक्ष्माभृन्निवासे, शुकमुखमुनिभिः, हे सेव्यमानाङ्घ्रिपद्मे, हे स्वाङ्गच्छायाविधूत-अमृतकरसुरराड्वाहने, हे वाक्सवित्री, हे शंभुश्रीनाथमुख्य- अमरवरनिकरैः मोदतः पूज्यमाने, हे कमलजदयिते (त्वं) विद्यां शुद्धां बुद्धिं च मह्यम् सत्वरं देहि ॥ १ ॥
---------------------------------------------------------------------------------
रूपाणि
शृङ्गक्ष्माभृन्निवासे = आकारान्तः स्त्रीलिङ्गः शृङ्गक्ष्माभृन्निवासा शब्दः सम्बोधन प्रथमा एकवचनम्
शुकमुखमुनिभिः = इकारान्तः पुल्लिङ्गः शुकमुखमुनि शब्दः तृतीया बहुवचनम् (कर्तरि तृतीया)
सेव्यमानाङ्घ्रिपद्मे = आकारान्तः स्त्रीलिङ्गः सेव्यमानाङ्घ्रिपद्मा शब्दः सम्बोधन प्रथमा एकवचनम्
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने = आकारान्तः स्त्रीलिङ्गः स्वाङ्गच्छायाविधूत -अमृतकरसुरराड्वाहना शब्दः सम्बोधन प्रथमा एकवचनम्
वाक्सवित्रि = ईकारान्तः स्त्रीलिङ्गः वाक्सवित्री शब्दः सम्बोधन प्रथमा एकवचनम्
शंभुश्रीनाथमुख्यामरवरनिकरैः = अकारान्तः पुल्लिङ्गः शंभुश्रीनाथमुख्यामरवर - निकर शब्दः तृतीया बहुवचनम् (कर्तरि तृतीया)
मोदतः = अव्ययम्
पूज्यमाने = आकारान्तः स्त्रीलिङ्गः पूज्यमाना शब्दः सम्बोधन प्रथमा एकवचनम्
All सम्बोधन प्रथमा are विशेषणम् to कमलजदयिते
विद्यां = आकारान्तः स्त्रीलिङ्गः विद्या शब्दः द्वितीया विभक्तिः एकवचनम्, देहि इत्यस्य कर्म
शुद्धां = आकारान्तः स्त्रीलिङ्गः शुद्धा शब्दः द्वितीया विभक्तिः एकवचनम्, देहि इत्यस्य कर्म
च =
बुद्धिं = इकारान्तः स्त्रीलिङ्गः बुद्धि शब्दः द्वितीया विभक्तिः एकवचनम्, देहि इत्यस्य कर्म
कमलजदयिते = आकारान्तः स्त्रीलिङ्गः कमलजदयिता शब्दः सम्बोधन प्रथमा एकवचनम्
सत्वरं = अव्ययम्
देहि = √दा (3P) लोट् मध्यमपुरुषः परस्मैपदि एकवचनम्
मह्यम् = दकारान्तः त्रिषुलिङ्गेषु समान रूपः अस्मत् शब्दः चतुर्थि विभक्तिः एकवचनम्
---------------------------------------------------------------------------------
समासाः
① शृङ्गक्ष्माभृन्निवासे = क्ष्मा बिभर्ति इति क्ष्माभृत् (उपपद तत्पुरुष)
(1) शृङ्गे क्ष्माभृत् - सप्तमी तत्पुरुष
(2) शृङ्गस्य क्ष्माभृत् - षष्ठी तत् पुरुष
(3) शृङ्ग इति क्ष्माभृत् - कर्मधारय
(4) शृङ्ग आख्या क्ष्माभृत् - कर्मधारय
सः निवासः यस्याः सा शृङ्गक्ष्माभृन्निवासा तस्य सम्बोधन प्रथमा शृङ्गक्ष्माभृन्निवासे
② शुकमुखमुनिभिः — शुक मुखे एषां ते शुकमुखाः (व्यतिकरण बहुव्रीहि)
(शुक is in front of which group of sages)
शुकमुखाः मुनयः शुकमुखमुनयः तैः -शुकमुखमुनिभिः (विशेषण पूर्वपद कर्मधारय)
③ सेव्यमानाङ्घ्रिपद्मे — अङ्घ्रि एव पद्मम् ते अङ्घ्रिपद्मे
अङ्घ्री एव पद्मे (अवधारणा पूर्वपद कर्मधारय)
सेव्यमाने अङ्घ्रिपद्मे यस्याः सा सेव्यमानाङ्घ्रिपद्मा तस्य सम्बोधन प्रथमा सेव्यमानाङ्घ्रिपद्मे
④ स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने
स्वाङ्गच्छाया — स्वस्याः अङ्गम् स्वाङ्गम् (षष्ठी तत् पुरुषः)
तस्य छाया (कान्ति lustre) स्वाङ्गच्छाया (षष्ठी तत् पुरुषः)
न मृतम् अमृतम् - (नञ् तत् पुरुषः)
अमृतः करः यस्य सः (चन्द्रः) अमृतकरः one whose rays are
immortal
सुराणां राड् सुरराड् (षष्ठी तत् पुरुषः)
तस्य वाहनम् सुरराड्वाहनम् (षष्ठी तत् पुरुषः)
अमृतकरः च सुरराड्वाहनं च अमृतकरसुरराड्वाहने (द्वन्द्व समासः)
स्वाङ्गच्छाया विधूते अमृतकरसुरराड्वाहने यस्या सा (बहुव्रीहि)
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहना (तस्य सम्बोधन प्रथमा)
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने
⑤ वाक्सवित्रि — वाचां सवित्री वाक्-सवित्री (तस्य सम्बोधन प्रथमा) वाक्सवित्री
⑥ शंभुश्रीनाथमुख्यामरवरनिकरैः
मरः न विद्यते यस्य सः अमरः (नञ् बहुव्रीहि)
अमराणां वरः अमरवरः (षष्ठी तत् पुरुषः)
श्रियाः or श्रियः नाथः श्रीनाथः (षष्ठी तत् पुरुषः)
शम्भुः च श्रीनाथः च शम्भुश्रीनाथौ (इतर इतर द्वन्द्व समासः)
शम्भुश्रीनाथौ मुख्यौ एषां ते शंभुश्रीनाथमुख्याः (बहुव्रीहि)
शंभुश्रीनाथमुख्याः च अमरवराः शंभुश्रीनाथमुख्यामरवराः (कर्मधारय)
तेषां निकरः (षष्ठी तत् पुरुषः) शंभुश्रीनाथमुख्यामरवरनिकरः तै
शंभुश्रीनाथमुख्यामरवरनिकरैः
⑦ कमलजदयिते = कमले (कमलात्) जायते इति कमलजः (उपपद तत् पुरुषः); तस्य दयिता कमलजदयिता (षष्ठी तत्पुरुषः) तस्य सम्बोधना प्रथमा कमलजदयिते
----------------------------------------------------------------------------------
व्युत्पत्तिः
① क्ष्माभृत् = क्षम् (1A, 4P) क्षमते क्षाम्यति to suffer, to endure, to
permit, to forgive to allow, pardon, to put up
क्षमते इति क्ष्मा कर्तृ व्युत्पत्तिः (one which endures)
क्ष्माम् भरति इति क्ष्माभृत् - one which protects the earth (mountain)
भृ (1P) to support भृणाति; क्ष्माम् बिभर्ति
② निवासः = (1) नि + √वस् (1P) भाव व्युत्पत्तिः living dwelling residing
(2) निवसति अस्मिन् इति निवासः (अधिकरण व्युत्पत्तिः) abode, house
③ मुनिः = √मन् (1P,4A,10A) (1) मनुते जानाति इति मुनिः (कर्तृ व्युत्पत्तिः)
(2) मनन शीलः मुनिः
(3) मौनात् मुनिः
④ सेव्यमाना = सेव्(1A) + य + माना present passive participle (सेवते)
⑤ विधूताः = वि + √धू (6 1U, 5U, 9U) + क्त PPP; To expell, to
shake off, to destroy, to negate
⑥ अमृत = √मृ (6 A) + क्त कर्तरि क्तः PPP
⑦ वाहनम् = (1) वह्(1U) + अनम्; वहति इति वाहनम् (कर्तृ व्युत्पत्तिः) one
which carries
(2) √वह् (1P) +णिच् + ल्युट् उह्यते अनेन वाहनम् (करण व्युत्पत्तिः) वाहयति
⑧ राट् = √राज्(1U)राजति, राजते इति राट् (कर्तृ व्युत्पत्तिः)one who shines
⑨ सवित्री = √सू(2A) + तृच् (generator) सूयते इति सवित्री (कर्तृ व्युत्पत्तिः )
⑩ शंभुः = शं मङ्गलं भवत्यस्मात् इति;
शं + √भू (1P) शं भवति भवयति इति (कर्तृ व्युत्पत्तिः)
⑪ मोदतः = √मुद् (1A) to rejoice + घञ् मोदः (भाव व्युत्पत्तिः)
मोद तसिल् = तृतीयार्थे तसिल्
⑫ विद्या = √विद् () to know, to understand + भाव व्युत्पत्तिः
---