Tuesday 16 February 2016

Adi Shankara's arrival was foretold in some Puranas - Vyasa has written about it

The below is an extract from a Vedanta Text - Vichara Sagara,. The author says that the arrival fo Adi Shankaracharya was foretold by Vyasa in some Puranas!! Vyasa is considered to be an Avatara of the Lord and a Chiranjeevi. He mentioned that Lord Shiva would take Avatara as Adi Sharankara, who would extract the message of Advaita from the Shruti. Te relevant verses from the Puranas are quoted below.


श्रीव्यासेन वायवीयकूर्मादिपुराणेषु शाङ्करमतमधिकृत्यैवमुच्यते..

कलौ युगे तु वेदार्थो वर्ण्यते ह्यन्यथान्यथा
 शङ्कराचार्यरूपेण शिवः साक्षात्तदा किल

 अवतीर्यान्यथाभूतं जैनबौद्धादिकं मतम्
 निर्मूलयिष्यत्यखिलं वेदवाक्यैः सयुक्तिभिः

 उद्धृत्य मूर्तिं (लिङ्गं) गङ्गायाः स्थापयिष्यति वै प्रभोः
 सूर्यालोकेन जगतो ह्यन्धकारविनाशने


यथावस्थितभानं तु पदार्थानां यथा भवेत्
 नाशश्च विपरीताख्यभावनाया यथा भवेत्

 सर्वसंशयनाशश्च भगवत्पूज्यपादभृत्
 शङ्करोऽपि तथैवेह लोकानुग्रहकाङ्क्षया

 वेदार्थविषयाज्ञानं भ्रान्तिसंशयकारणम्
 निश्शेषं नाशयित्वासौ साधयित्वाद्वयं परम्

 अद्वयब्रह्मविद्यां स्थापयेदवनीतले
 अन्यथा वर्णयेद्यस्तु वेदार्थं तु मूढधीः इति

Even in the Shiva Rahasyam, the arrival of Adi Shabkaracharya is foretold


महेतिहासे शिवरहस्ये नवमांशे शाङ्करमतस्यौपनिषदत्वमुच्यते

 शिवे मदंशसम्भूतः शङ्करः शङ्करोत्तमः
 चतुर्भिः सह शिष्यैश्च कलाववतरिष्यति

 तस्मै चोपनिषद्विद्या मया दत्ता महेश्वरि
 भूमौ पाषण्डषण्डानां खण्डनं करिष्यति