This is from the Vedantic work - Vichara Sagara, a wonderful text on Advaita by Pandit Nischala Dasa. The original work was in Hindi and because of the beauty of the text and the depth of the knowledge imparted, Swami Vasudeva Brahmendra Saraswati translated the same into Sanskrit.
Reproduced below is a small portion of the text in which Pandit Nischala Dasa says that the nature of Brahman can be got from the word - from the "Vyutpatti" of Brahman.
Read on.. A small explanatory note in English is given in between.
ब्रह्मस्वरूपवर्णनम् —
महाकाशवत् ब्रह्माण्डानामन्तर्बहिश्च
व्याप्य वर्तमानमखण्डपरिपूर्णचैतन्यं ब्रह्मेत्युच्यते । भाष्ये चोक्तम् — “ब्रह्मशब्दस्य
हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृहतेर्धातोरर्थानुगमात्
। सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः” (ब्र. सू. भा. १.१.१) इति ।
रत्नप्रभायामप्येवं व्याख्यातम् —
“स चार्थो महत्वरूप इति व्याकरणान्निश्चीयते;
‘बृहि वृद्धौ’ इति स्मरणात् । सा च वृद्धिर्निरवधिकमहत्वमिति, सङ्कोचकाभावात्
(From
the root for the word Brahman, one can derive the nature of Brahman! The root means
BIG.... just BIG)There being no word to qualify the bigness of BIG – Infinite Bigness
is the meaning that can be derived. Normally when we use Big – we say Big ant
or Big elephant or Big Star etc. The Bigness means a few millimeters, a few feet
or a few thousand kilometres and is qualified by the proximate word. In the
case of Brahman, it is just BIG – without a proximate word it will
mean Infinitely BIG or INFINITE not limited by time, space or any object. One can derive Advaitam also from this. Read on...)
श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते”
इति, “अतो बृंहणाद्-ब्रह्मेति व्युत्पत्त्या देशकालवस्तुकृतपरिच्छेदाभावरूपं नित्यत्वं
प्रतीयते” इति च । तथा सूतसंहिताव्याख्यानेऽप्युक्तम् । (यज्ञ. ब्रह्मगी. ३.३१)
“ब्रह्म सत्यज्ञानसुखाद्वयम्, बृहधात्वर्थस्यानुगमात्
। तथा हि — ‘बृह बृहि वृद्धौ’ इति धातुर्वृद्धिमाचष्टे । सा च वृद्धिः (Bigness) प्रतियोगिविशेषानुपादानान्निरतिशयैव विवक्षिता ।
सति च वस्त्वन्तरे तेन परिच्छेदाद्-वृद्धेर्निरतिशयत्वं भज्येत । तथा
च वस्त्वन्तरकृतपरिच्छेदरहितमेव ब्रह्मशब्दवाच्यं भवितुमर्हति ।
द्वैतप्रपञ्चस्य तत्स्वरूपेऽध्यस्ततयैव प्रतीतेर्वस्तुतस्तत्स्वरूपानतिरिक्तत्वात् । तथा च वस्तुकृतपरिच्छेदनिराकरणेनैव देशकाल-कृतपरिच्छेदोऽपि निरस्तो वेदितव्यः । देशकालयोरपि परिकल्पितत्वेन वस्तुतस्तद्रूपानतिरेकात् । एवं द्वैतापरोक्षस्याधिष्ठानत्वेन तद्बाधावधित्वेन च
द्वैतप्रपञ्चस्य तत्स्वरूपेऽध्यस्ततयैव प्रतीतेर्वस्तुतस्तत्स्वरूपानतिरिक्तत्वात् । तथा च वस्तुकृतपरिच्छेदनिराकरणेनैव देशकाल-कृतपरिच्छेदोऽपि निरस्तो वेदितव्यः । देशकालयोरपि परिकल्पितत्वेन वस्तुतस्तद्रूपानतिरेकात् । एवं द्वैतापरोक्षस्याधिष्ठानत्वेन तद्बाधावधित्वेन च
त्रिविधपरिच्छेदरहितं यदद्वितीयं तत्सत्यमेवेष्टव्यम्”
इति ।