Sequence of Twelve Jyotirlingas
द्वादशज्योतिर्लिंगस्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलशृङ्गे विबुधादिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तं ओंकारमीशं शिवमेकमीडे ॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्री वैद्यनाथं तमहं नमामि ॥ ५ ॥
यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ ६ ॥
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्चितं तं रामेश्वराख्यं नियतं नमामि ॥ ७ ॥
याम्ये सदंगे नगरेऽतिरम्ये विभूषिताङ्गं विबुधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्री नागनाथं शरणं प्रपद्ये ॥ ८ ॥
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्री विश्वनाथं शरणं प्रपद्ये ॥ ९ ॥
सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात् पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ १० ॥
महाद्रिपार्श्वे च तटे रमन्तं संपूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैः यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥ ११ ॥
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यं ।
वन्दे महोदारतरस्वभावं धृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ १३ ॥
This Stotra is said to be authored by Adi Shankaracharya. Here, in the last Shloka the phrase प्रोक्तमिदं क्रमेण suggests the sequence of Darshan of Twelve Jyotirlingas. However, the sequence found here is too zigzag via Gujarat, Andhra, Madhya Pradesh, etc. Whoever be the author of this Stotra must had something in mind in presenting the sequence of Jyotirlingas. I could not find any reason for this order.
The same order is seen in the following Stotra also -
द्वादश ज्योतिर्लिङ्गानि
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति ।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥
Shiva Teaching Yoga
मय्येकचित्तता योग इति पूर्ब्बं निरूपितम् । साधनान्यष्टधा तस्य प्रवक्ष्याम्यधुना शृणु ॥
यमाश्च नियमास्तावदासनान्यपि षण्मुख । प्राणायामस्ततः प्रोक्तः प्रायाहारश्च धारणा ॥
ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते ।..मद्भक्तिभावना पूता यान्ति मत्परमं पदम् ॥
जगतः प्रलये प्राप्ते नष्टे च कमलोद्भवे । मद्भक्ता नैव नश्यन्ति स्वेच्छाविग्रहधारिणः ॥
योगिनां कर्म्मिणां चैव तापसानां यतात्मनाम् । अहमेव गतिस्तेषां नान्यदस्तीति निश्चयः ॥(ब्रह्मपुराणम् - १२ अध्यायः)
This is quoted by Shabdakalpadruma. Here Shiva gives Upadesha of Yoga to his son Subrahmanya. I could not find any other reference (direct) that Shiva is teaching Yoga to his disciple in Summer Solstice. However, one such indirect Sholaka (famous and familiar) is
चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥
This shloka refers to Yoga teaching indirectly. Because the four disciples Sanaka, Sanandana etc are known as Yogiishaas. Hence, Shiva might be teaching Yoga to them. This can be supported by these shlokas -
1) पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः। पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम्।।
2) सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः ।
3) त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥
Also here, मौनं refers to one of the parts of Yoga (Yoga Anga) under Tapas - काष्ठमौनम् आकारमौनं च. Hence, this shloka could also be treated as a source for Shiva teaching Yoga to his disciples.
*******