Commentary of Uttara Gita shlokas here
अर्थज्ञानं विना केवलवेदपाठमात्रेण वेदवित्त्वं नास्ति , किन्तु वेदतात्पर्यगोचरब्रह्मज्ञानेन वेदवित्त्वमित्याह -
तैलधारमिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥२४॥
तैलधारमिवाच्छिन्नं सन्ततधारावद्विच्छेदरहितं दीर्घघण्टानिनासवद् अतिदीर्घघण्टाध्वन्यग्रवद्विच्छेदरहितम् अवाच्यं वाङ्मनसोरगोचरं प्रणवस्य अकारोकारमकारबिन्दुनादकलात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद स वेदविद् वेदान्तार्थज्ञानी नान्य इत्यर्थः ॥२४॥
तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह -
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ २५॥
आत्मानं कर्तृत्वाद्यध्यासवन्तं जीवमरणिं कृत्वा अधरारणिं भावयित्वा प्रणवं परमात्मप्रतिपादकस्वरूपं शब्दमुत्तरारणिं कृत्वा भावयित्वा ध्याननिर्मथनाभ्यासात् ध्यानरूपमथनपौनःपुन्येन , एवं पूर्वोक्तप्रकारेण निगूढवत्पाण्डित्याप्रकटनेन यो वर्तेत स एव परमात्मानं पश्यन् नान्य इत्यर्थः ॥२५॥
---------------------------------------------------------------------------
तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह -
तेषां लक्षणमाह -
आरूढस्य लक्षणमुक्तम् , आरुरुक्षोरुपायमाह -
तादृशसमाधौ स्थितस्य लक्षणमाह -
---------------------------------------------------------------------------
था सर्वगतो देही देहमध्ये व्यवस्थितः।
मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः॥३१॥
तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः देहमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्नतिलेषु तैलवद् एकत्वेन स्थित इत्यर्थः। देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया भासत इत्यर्थः॥३१॥तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह -
मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम्।
मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः॥३२॥
मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्यस्थं सर्वसाक्षिभूतं मनवर्जितं सङ्कल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्यतद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सिध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः॥३२॥तेषां लक्षणमाह -
आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम्।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम्॥३३॥
आकाशवन्मानसं मनो निर्मलं कृत्वा मनः सङ्कल्पविकल्पात्मकं निरास्पदं निर्विषयं कृत्वा निश्चलं निष्क्रियमीश्वरं यो विजानीयात् स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः॥३३॥आरूढस्य लक्षणमुक्तम् , आरुरुक्षोरुपायमाह -
योगामृतरसं पीत्वा वायुभक्षः सदा सुखी।
यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत्॥३४॥
योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृत्वा तत्तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः , वायुभक्षः वायुमात्राहरः , उपलक्षणमेतत् हितमितमेध्याशी सदा सुखी सर्वदा सन्तुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते , स समाधिरित्युच्यते। स समाधिः मृत्युनाशकृत् जननमरणसंसारनाशकृदित्यर्थः॥३४॥ तादृशसमाधौ स्थितस्य लक्षणमाह -
ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम्।
सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम्॥३५॥
ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम् अधःशून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकालादिपरिच्छेदरहितं यदात्मकं यत्स्वरूपं , स आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः॥३५॥