Wednesday, 22 July 2015

हैमाष्टकम् composed by Acharya Ramanuja Devanathan





Acharyaji himself has translated the verses. Mr S Ganesan's notes are added too

॥ हैमाष्टकम् ॥

Eulogy on Amaranatha the Ice-Linga form of Siva

स्वयम्भू राजते शिवः धृत्वा हैमम् अलौकिकम् ।
स्वयञ्च लुप्यते यश्च स्मारयन् जीवितं क्षुद्रम् ॥१॥
Having taken the form of Ice, self-originated Shiva shines. He himself disappears having reminding us that life is momentary. 
Taken the form of ice Linga, Siva the self-manifested
Disappears as thin ice, reminding mortals’ life is limited.
विभूतिं दर्शयन् स्वस्य भक्तानाकर्षति स्वयम् ।
पर्वते चापि पाषाणे नयत्यप्राकृतं शुभम् ॥२॥
He attracts devotees having shown his significant form and leads us through Mountains and Rocks to supernatural bliss.. 
Attracts & leads His devotees with divine form unique & substantial. Through rough mounts & terrain harsh towards bestowing bliss 


नद्या धावितौ चरणौ तस्यामेकीभवन्मरो ।
बोधयन् मायाऽस्थिरतां जायते ह्यमरो नाथः ॥३॥
Your feet are washed by the River and you merged into that River being as though a mortal. You thus show that Maya is unsteady-myth but you become (are) immortal. 
Amaranatha shows thus that mortals, myth as they are, attain immortal glory.


सेव्यमानः कपोताभ्यां सुखदुःखे श्वेतनीले ।
जीवनस्य क्रमागते पक्वं करोति मानसम् ॥४॥
You are served by the two pigeons (white and black) showing the world dvandva -
Make one mature to know life is a cycle of black sorrows & white happiness.

ददद् श्रान्तिं गते मार्गे शीतं करोति सन्निधौ ।
पीडां विस्मृत्य ते रूपे हैमे मज्जति मानवः ॥५॥
You make us feel tired, and yet you soothe us who are near you. All (devotees) drowned in your form of ice have forgotten their pains.
On the way to the pilgrimage one feels tired but near You the coolth,Immersed in Your thoughts, one forgets the pain with the ice to soothe.

शिखरे च समासीनः सर्वं पश्यति शीतलम् ।
घर्मं करोति देहं च शीतले हिमपर्वते ॥६॥
Having sat on the mountain top one see everything cool. (Yet)Your sight makes our body warm in the cold Himalayan tops. 
Atop the mountain one ‘sees’ everywhere only coolness
Fervour of Your Divine Sight makes us feel warmth in Mount Himalayas!

झराणां प्रवहद्धाराऽनुकम्पारसस्य ते ।
दयाऽक्षयाऽस्तु ते पूर्णा शैवं भवतु ते वरम् ॥७॥


We see the falls on the Himalayas as the stream of your Karuna. Let that stream of Karuna be everlasting and complete and your boon be a welfare. 
The waterfalls there are verily the flow of Your boundless grace. May that flow unhindered and complete boon for our welfare.


कैलासे राजते नित्यं योगमुद्रां ददत्सदा ।
शीतलं चक्षुरुन्मील्य मासस्द्वौ पश्यति भृशम् ॥८॥


You shine in the Kailash forever having holding Yoga posture. Ho, it is our fortune that you see us with your cold eye at least for two months.
Shining forever in your Mahayogi’s posture in KailaSa You bestow. With Your divine cool sight blossomed for us for months two.


य इदमष्टकं भक्त्या पठेत्प्रतिदिनं नरः ।
यात्रायाः फलमाप्नोति हैमो देवः प्रसीदति ॥९॥


Those who read this Astaka daily with devotion would get the Punya of Amarnath Yatra and (Lord Shiva)Ice-God would be pleased.

The explanation by @vezhamukhan S.Ganesan, is given here http://linkis.com/wordpress.com/olCQ4

Wednesday, 15 July 2015

Pearls from Sanskrit literature shared by @puujaap


Some wonderful verses from Sanskrit literature shared by Pooja are given below in this storified collection. Read on and enjoy...

Tuesday, 7 July 2015

A beautiful verse from Shatashloki - दृष्टान्तो नैव दृष्ट: सद्गुरोर्ज्ञानदातुः



ॐ श्री गुरुभ्यो नमः

This is a beautiful verse from Shatashloki on the glory of the Guru. 

दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरोर्ज्ञानदातुः
स्पर्शश्चेत्तत्र कल्प्यः स नयति यदहो स्वर्णतामश्मसारम् ।
न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरोस्स्वीयशिष्ये 
स्वीयं साम्यं विधत्ते भवति निरुपमस्तेन वाऽलौकिकोऽपि ॥



There is nothing in all the three worlds that can be compared to the Sadguru who imparts knowledge of the Self. The legendary Philosopher's stone may perhaps be suggested as a comparison, because it has the capacity to convert a piece of metal into gold on touch, just as the Guru converts an ordinary disciple into an enlightened person.

But even this comparison cannot stand, because the Sadguru, "even without touch" makes the disciple, who has surrendered at His feet like Himself. He blesses the disciple (through teaching) and makes the disciple an enlightened Guru, like Himself capable of enlightening and transforming others. The Philosopher's stone does not have the capacity to convert a piece of metal into another Philosopher's stone. Therefore the Sadguru is incomparable and transcends the world in His glory.

It is like the case of a lamp lit from another lamp. What would be the difference between the two? The second lamp also can light other lamps; thus there is no difference at all between them.  प्रवर्तितो दीप इव प्रदीपात्.

Saturday, 4 July 2015

Meaning of तैलधारमिवाच्छिन्नं दीर्घघण्टानिनादवत् and other shlokas from Uttara Gita

Commentary of Uttara Gita shlokas here 

अर्थज्ञानं विना केवलवेदपाठमात्रेण वेदवित्त्वं नास्ति , किन्तु वेदतात्पर्यगोचरब्रह्मज्ञानेन वेदवित्त्वमित्याह -

तैलधारमिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥२४॥

तैलधारमिवाच्छिन्नं सन्ततधारावद्विच्छेदरहितं  दीर्घघण्टानिनासवद् अतिदीर्घघण्टाध्वन्यग्रवद्विच्छेदरहितम् अवाच्यं वाङ्मनसोरगोचरं प्रणवस्य अकारोकारमकारबिन्दुनादकलात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद स वेदविद् वेदान्तार्थज्ञानी नान्य इत्यर्थः ॥२४॥


तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह -
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ २५॥

आत्मानं कर्तृत्वाद्यध्यासवन्तं जीवमरणिं कृत्वा अधरारणिं भावयित्वा प्रणवं परमात्मप्रतिपादकस्वरूपं शब्दमुत्तरारणिं कृत्वा भावयित्वा ध्याननिर्मथनाभ्यासात् ध्यानरूपमथनपौनःपुन्येन , एवं पूर्वोक्तप्रकारेण निगूढवत्पाण्डित्याप्रकटनेन यो वर्तेत स एव परमात्मानं पश्यन् नान्य इत्यर्थः ॥२५॥

---------------------------------------------------------------------------
था सर्वगतो देही देहमध्ये व्यवस्थितः। 
मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः॥३१॥

तथा पूर्वोक्ततैलादिवत्‌ सर्वगतः सर्वव्यापी देही जीवः देहमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्नतिलेषु तैलवद् एकत्वेन स्थित इत्यर्थः। देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया भासत इत्यर्थः॥३१॥


तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह -


मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम्‌।
मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः॥३२॥

मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्यस्थं सर्वसाक्षिभूतं मनवर्जितं सङ्कल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्यतद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सिध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः॥३२॥


तेषां लक्षणमाह - 

आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम्‌।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम्‌॥३३॥

आकाशवन्मानसं मनो निर्मलं कृत्वा मनः सङ्कल्पविकल्पात्मकं निरास्पदं निर्विषयं कृत्वा निश्चलं निष्क्रियमीश्वरं यो विजानीयात्‌ स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः॥३३॥

आरूढस्य लक्षणमुक्तम्‌ , आरुरुक्षोरुपायमाह -


योगामृतरसं पीत्वा वायुभक्षः सदा सुखी।
यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत्‌॥३४॥

योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृत्वा तत्तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः , वायुभक्षः वायुमात्राहरः , उपलक्षणमेतत्‌ हितमितमेध्याशी सदा सुखी सर्वदा सन्तुष्टः सन्‌ , यं यमं मनोनिग्रहं नित्यमभ्यस्यते , स समाधिरित्युच्यते। स समाधिः मृत्युनाशकृत्‌ जननमरणसंसारनाशकृदित्यर्थः॥३४॥ 

तादृशसमाधौ स्थितस्य लक्षणमाह -


ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम्‌।
सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम्‌॥३५॥

ऊर्ध्वशून्यम्‌ ऊर्ध्वदेशपरिच्छेदरहितम्‌ अधःशून्यम्‌ अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकालादिपरिच्छेदरहितं यदात्मकं यत्स्वरूपं , स आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः॥३५॥

Tuesday, 30 June 2015

As we think...so we become - put beautifully in Sanskrit verse

ॐ श्री गुरुभ्यो नमः

As we think...so we become - Acharya @iksusara,  Ranga @samjignyasu and @PnNamboo put this beautifully in verse. 

"Watch your thoughts for they become words.
Watch your words for they become actions.
Watch your actions for they become habits.
Watch your habits for they become your character.
And watch your character for it becomes your destiny.
What we think, we become."


Acharya wrote


यथाचिन्तं तथा वचः यथा वचः तथा क्रिया । यथाक्रियं तथाभ्यासः यथाभ्यासं तथा शीलम्॥
यथाशीलं तथा भाग्यम् एतज् जानीत मानवाः । यथाभावं भवामस्तु रहस्यं तद्विजानीत ॥

Ranga's composition

चिन्तां वचो ऽनुसरति क्रियया वचोऽनुव्रज्येत कर्म समये ऽभ्यसनं प्रसूते l
अभ्यासतो भवति शीलमतश्च भाग्यं चिन्ता हि भाग्यजननीत्यवधेहि तस्मात् ॥​

Verses by Nambooji
यथा चिन्ता तथा भाषा यथा भाषा तथा क्रिया । यथा क्रिया तथा शीलं सत्वं शीलसमाश्रितम् ॥
उत्तरोत्तरधर्माणां कार्यकारणयोगतः । उदात्तभावचिन्ताभिः सत्वशुद्धिर्भवेन्नृणाम् ॥


Monday, 22 June 2015

Sequence of Twelve Jyotirlingas द्वादशज्योतिर्लिंगस्तोत्रम् and Shiva teaching yoga


Sequence of Twelve Jyotirlingas


द्वादशज्योतिर्लिंगस्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥

श्रीशैलशृङ्गे विबुधादिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३ ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तं ओंकारमीशं शिवमेकमीडे ॥ ४ ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्री वैद्यनाथं तमहं नमामि ॥ ५ ॥

यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ ६ ॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्चितं तं रामेश्वराख्यं नियतं नमामि ॥ ७ ॥

याम्ये सदंगे नगरेऽतिरम्ये विभूषिताङ्गं विबुधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्री नागनाथं शरणं प्रपद्ये ॥ ८ ॥

सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्री विश्वनाथं शरणं प्रपद्ये ॥ ९ ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात् पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ १० ॥

महाद्रिपार्श्वे च तटे रमन्तं संपूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैः यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥ ११ ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यं ।
वन्दे महोदारतरस्वभावं धृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ १३ ॥

This Stotra is said to be authored by Adi Shankaracharya. Here, in the last Shloka the phrase प्रोक्तमिदं क्रमेण suggests the sequence of Darshan of Twelve Jyotirlingas. However, the sequence found here is too zigzag via Gujarat, Andhra, Madhya Pradesh, etc. Whoever be the author of this Stotra must had something in mind in presenting the sequence of Jyotirlingas. I could not find any reason for this order.

The same order is seen in the following Stotra also -
द्वादश ज्योतिर्लिङ्गानि

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

एतेशां दर्शनादेव पातकं नैव तिष्ठति ।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥

Shiva Teaching Yoga



मय्येकचित्तता योग इति पूर्ब्बं निरूपितम् । साधनान्यष्टधा तस्य प्रवक्ष्याम्यधुना शृणु ॥
यमाश्च नियमास्तावदासनान्यपि षण्मुख । प्राणायामस्ततः प्रोक्तः प्रायाहारश्च धारणा ॥
ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते ।..मद्भक्तिभावना पूता यान्ति मत्परमं पदम् ॥
जगतः प्रलये प्राप्ते नष्टे च कमलोद्भवे । मद्भक्ता नैव नश्यन्ति स्वेच्छाविग्रहधारिणः ॥
योगिनां कर्म्मिणां चैव तापसानां यतात्मनाम् । अहमेव गतिस्तेषां नान्यदस्तीति निश्चयः ॥(ब्रह्मपुराणम् - १२ अध्यायः) 
This is quoted by Shabdakalpadruma. Here Shiva gives Upadesha of Yoga to his son Subrahmanya. I could not find any other reference (direct) that Shiva is teaching Yoga to his disciple in Summer Solstice. However, one such indirect Sholaka (famous and familiar) is
चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥

This shloka refers to Yoga teaching indirectly. Because the four disciples Sanaka, Sanandana etc are known as Yogiishaas. Hence, Shiva might be teaching Yoga to them. This can be supported by these shlokas -

1) पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः। पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम्।।
2) सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः ।
3) त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥

Also here, मौनं refers to one of the parts of Yoga (Yoga Anga) under Tapas - काष्ठमौनम् आकारमौनं च. Hence, this shloka could also be treated as a source for Shiva teaching Yoga to his disciples.
******* 

Wednesday, 17 June 2015

कस्मै वेह न रोचेत


ॐ श्री गुरुभ्यो नमः

Sanskrit is flourishing on Twitter. Here are some verses on twitterati composed on the spot by Acharya @iksusara